वांछित मन्त्र चुनें

इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् । इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्र॒: क्षेमे॒ योगे॒ हव्य॒ इन्द्र॑: ॥

अंग्रेज़ी लिप्यंतरण

indro diva indra īśe pṛthivyā indro apām indra it parvatānām | indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ ||

पद पाठ

इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् । इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥ १०.८९.१०

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः-दिवः) परमात्मा द्युलोक का (इन्द्रः पृथिव्याः) परमात्मा पृथिवीलोक का (इन्द्रः-अपाम्) परमात्मा अन्तरिक्ष का (इन्द्रः-इत् पर्वतानाम्) परमात्मा ही मेघों का (इन्द्रः-वृधाम्) परमात्मा आकार में वृद्ध बड़ों आकाश आदि तथा आयु में बड़ों का (इन्द्रः-इत्-मेधिराणाम्) परमात्मा मेधावी ऋषियों का (ईशे) स्वामित्व करता है-शासन करता है (इन्द्रः क्षेमे) परमात्मा प्राप्त के रक्षण में (इन्द्रः-योगे) परमात्मा अप्राप्त के योग-पाने में (हव्यः) ह्वान करने योग्य-आमन्त्रण करने योग्य उपास्य है ॥१०॥
भावार्थभाषाः - द्युलोक, पृथिवीलोक, अन्तरिक्ष तथा मेघों, महान् आकाश आदि पदार्थों, आयु में बड़ों, मेधावी ऋषियों का स्वामित्व करनेवाला है और हमारे द्वारा रक्षार्थ एवं प्राप्ति के लिये आमन्त्रण करने योग्य उपास्य है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः-दिवः) परमात्मा द्युलोकस्य (इन्द्रः पृथिव्याः) परमात्मा पृथिवीलोकस्य (ईशे) ईष्टे-स्वामित्वं करोति (इन्द्रः-अपाम्) परमात्माऽन्तरिक्षस्य “आपः अन्तरिक्षनाम” [निघं० १।३] ईष्टे (इन्द्रः-इत्-पर्वतानाम्) मेघानामपि स्वामित्वं करोपि “पर्वतः-मेघनाम” [निघं० १।१०] (इन्द्रः-वृधाम्) परमात्माऽऽयुषि वृद्धानामीष्टे (इन्द्रः-इत् मेधिराणाम्) परमात्मा हि मेधाविनामृषीणाम्-मेधाशब्दान्मतुबर्थे-इरिन् प्रत्ययः “मेधा रथाभ्यामिरिन्निरिचौ” [अष्टा० ५।१०२।९ वा०] (इन्द्रः-क्षेमे) परमात्मा प्राप्तस्य रक्षणे (इन्द्रः-योगे) परमात्माऽप्राप्तस्य योजनाय (हव्यः) ह्वातव्यः-आमन्त्रणीयः-उपासनीयः ॥१०॥